वांछित मन्त्र चुनें
आर्चिक को चुनें

त्व꣡ष्टा꣢ नो꣣ दै꣢व्यं꣣ व꣡चः꣢ प꣣र्ज꣢न्यो꣣ ब्र꣡ह्म꣢ण꣣स्प꣡तिः꣢ । पु꣢त्रै꣡र्भ्रातृ꣢꣯भि꣣र꣡दि꣢ति꣣र्नु꣡ पा꣢तु नो दु꣣ष्ट꣢रं꣣ त्रा꣡म꣢णं꣣ व꣡चः꣢ ॥२९९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः । पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः ॥२९९॥

मन्त्र उच्चारण
पद पाठ

त्व꣡ष्टा꣢꣯ । नः꣣ । दै꣡व्य꣢꣯म् । व꣡चः꣢꣯ । प꣣र्ज꣡न्यः꣢ । ब्र꣡ह्म꣢꣯णः । प꣡तिः꣢꣯ । पु꣣त्रैः꣢ । पु꣣त् । त्रैः꣢ । भ्रा꣡तृ꣢भिः । अ꣡दि꣢꣯तिः । अ । दि꣣तिः । नु꣢ । पा꣣तु । नः । दुष्ट꣡र꣢म् । दुः꣣ । त꣡र꣢꣯म् । त्रा꣡म꣢꣯णम् । व꣡चः꣢꣯ ॥२९९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 299 | (कौथोम) 4 » 1 » 1 » 7 | (रानायाणीय) 3 » 7 » 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

इस मन्त्र के देवता मन्त्रोक्त त्वष्टा, पर्जन्य, ब्रह्मणस्पति और अदिति हैं। इन्द्र के प्रकरण में उनसे भी रक्षा आदि की याचना की गयी है।

पदार्थान्वयभाषाः -

(त्वष्टा) दोषनिवारक, तेजस्वी, दुःखच्छेदक विद्वान् मनुष्य, (पर्जन्यः) बादल के समान उपदेश की वर्षा करनेवाला संन्यासी, और (ब्रह्मणः पतिः) ज्ञान का अधिपति आचार्य (नः) हमारे लिए (दैव्यं वचः) ईश्वरीय वेदवचन का उपदेश करें। (पुत्रैः) पुत्रों सहित, और (भ्रातृभिः) भाई-बन्धुओं सहित (नः) हमें (अदितिः) जगन्माता (नु) शीघ्र ही (पातु) रक्षा प्रदान करती रहे। हमारा (वचः) वचन (दुष्टरम्) दुस्तर, अकाट्य तथा (त्रामणम्) दूसरों की रक्षा करनेवाला होवे ॥७॥

भावार्थभाषाः -

विद्वानों के उपदेश से पुत्र, पौत्र, बन्धु, बान्धव आदि सहित सब लोग वेद के ज्ञाता, सत्कर्मों में संलग्न और परमेश्वर-प्रेमी होते हुए व्यवहार में सत्य, मधुर, प्रभावजनक तथा कुतर्कों से अकाट्य वचन बोला करें ॥७॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मन्त्रोक्तास्त्वष्टृपर्जन्यब्रह्मणस्पत्यदितयो देवताः। इन्द्रप्रकरणे तेऽपि रक्षादिकं याच्यन्ते।

पदार्थान्वयभाषाः -

(त्वष्टा) दोषाणां तनूकर्ता, तेजसा दीप्तः, दुःखच्छेदको विद्वान् जनः, त्वक्ष तनूकरणे। यद्वा त्विष दीप्तौ, ‘त्विषेर्देवतायामकारश्चोपधाया अनिट्त्वं च’ अ० ३।२।१३५ वा० अनेन त्विषधातोस्तृन्, उपधाया अकारः, इडभावश्च। (पर्जन्यः) पर्जन्यवद् उपदेशवर्षकः संन्यासी, (ब्रह्मणः पतिः) ज्ञानस्य अधिपतिः आचार्यश्च। संहितायां ‘षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु।’ अ० ८।३।५३ इति विसर्जनीयस्य सत्वम्। (नः) अस्मभ्यम् (दैव्यं वचः) ईश्वरीयं वेदवचनम्, उपदिशन्तु इति शेषः। देवात् परमेश्वराद् आगतं दैव्यम्। ‘देवाद्यञञौ’ अ० ४।१।८५ वा इति यञ् प्रत्ययः। किञ्च, (पुत्रैः) तनयैः (भ्रातृभिः) बन्धुभिश्च साकम् (नः) अस्मान् (अदितिः) जगन्माता। अदितिर्माता। ऋ० १।८९।१० इति प्रामाण्याद् माता अदितिरुच्यते। (नु) सद्यः एव (पातु) रक्षतु। अस्माकम् (वचः) वचनम् (दुष्टरम्) अनतिक्रमणीयम्, अकाट्यम् (त्रामणम्२) परेषां पालकं च, भूयाद् इति शेषः। त्रैङ् पालने, मनिन्। त्रामन् शब्दान्नपुंसि प्रथमैकवचने ‘त्राम’ इति प्राप्ते अमो लुगभावश्छान्दसः ॥७॥

भावार्थभाषाः -

विदुषामुपदेशेन पुत्रपौत्रबन्धुबान्धवादिसहिताः सर्वे वेदज्ञाः सत्कर्मपरायणाः परमेश्वरप्रियाश्च सन्तो व्यवहारे सत्यं मधुरं प्रभावजनकं कुतर्कैरकाट्यं च वचनं ब्रूयुः॥७॥

टिप्पणी: १. अथ० ६।४।१ अथर्वा ऋषिः। ‘नो’ इत्यत्र ‘मे’ इति, ‘त्रामणं वचः’ इत्यत्र च ‘त्रायमाणं सहः’ इति पाठः। २. त्रामणं रक्षासाधनम्। रक्षणं फलप्रदानम्—इति भ०। त्रामणं रक्षणीयं वचः पातु—इति सा०।